|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.13. अध्यायः 013
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
भीमे दुर्योधनादिभ्यः श्राद्धदानाय धनदानमरोचयति सति युधिष्ठिरेण विदुरंप्रति धृतराष्ट्रे निजगृहकोशाद्धनदाननिवेदनकथनम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
अर्जुन उवाच।
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वमुक्तुमुत्सहे।
धृताराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति॥ 16-13-1(97592)
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि।
असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः॥ 16-13-2(97593)
इति तस्य वचः श्रुत्वा फल्गुनस्य महात्मनः।
विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः॥ 16-13-3(97594)
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम्।
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम्॥ 16-13-4(97595)
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्।
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः॥ 16-13-5(97596)
वैशम्पायन उवाच। 16-13-6x(8044)
इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत्।
भीमसेनः कटाक्षेण वीक्षांचक्रे धनंजयम्॥ 16-13-6(97597)
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः।
न भीमसेन कोपं स नृपतिः कर्तुमर्हति॥ 16-13-7(97598)
परिक्लिष्टो हि भीमस्तु हिमवृष्ट्यातपादिभिः।
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव॥ 16-13-8(97599)
किंतु मद्वचनाद्ब्रूहि राजानं भरतर्षभम्॥
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति॥ 16-13-9(97600)
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः।
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः॥ 16-13-10(97601)
यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि।
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः॥ 16-13-11(97602)
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः।
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः॥ 16-13-12(97603)
इदं चापि शरीरं मे तवायत्तं जनाधिप।
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः॥ ॥ 16-13-13(97604)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोदशोऽध्यायः॥। 13 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|